MP Board Class 8th Sanskrit निबन्ध-रचना
(1) उद्यानम्
- उद्यानम् अत्यन्तं रमणीयम् भवति।
- उद्याने वृक्षाः रोहन्ति।
- वृक्षाः पर्णैः, पुष्प, फलैः च शोभन्ते।
- बालकाः उद्याने क्रीडन्ति।
- उद्याने तडागः अपि अस्ति।
- जनाः उद्याने भ्रमणार्थं गच्छन्ति।
- खगाः वृक्षेषुः निवसन्ति।
- तत्र ते नीडान् रचयन्ति।
- प्रभाते खगानां कूजनम् मनोहरम् भवति।
- वर्तमानकाले वृक्षारोपणकार्य तीव्रगत्या प्रसरति।
(2) विद्यालयः
- मम विद्यालयः ‘गुराडियामाता’ ग्रामे स्थितः अस्ति।
- विद्यालयस्य भवनम् अतीवसुन्दरम् अस्ति।
- अहम् प्रतिदिनं विद्यालयं गच्छामि।
- अहं विद्यालयं गत्वा गुरुन् प्रणमामि
- गुरवः स्नेहेन पठम् पाठयन्ति
- विद्यालये एकम् उद्यानम् अपि अस्ति।
- विद्यालये एकः पुस्तकालयः अस्ति।
- विद्यालये एक विशालं क्रीडाक्षेत्रम् अस्ति।
- तत्र छात्राः क्रीडन्ति।
- विद्यालयः मह्यम् अतीव रोचते।
(3) धेनुः
- धेनुः अस्माकम् माता अस्ति।
- धेनोः चत्वारः पादाः, द्वे,शृङ्गे, एकं लाङ्गलं च भवति।
- धेनूनां विविधाः वर्णाः भवन्ति।
- धेनुः तृणानि भक्षयति।
- धेनुः जनेभ्यः मधुरम्. पयः प्रयच्छति।
- गोमूत्रेण विविधानां दोषाणां रोगाणां च नाशः भवति।
- धेनोः दुग्धेन दधि, तक्रम, नवनीतम्, घृतम् च निर्मितम् भवति
- भारतीयसंस्कृतौ धेनूनाम् महत्त्वम् अधिकम् अस्ति।
- धेनोः दुग्धम् मधुरम्, पथ्यम् हितकारि च भवति।
- वयं धेनुम् मातृरूपेण पूजयामः।
(4) मम कर्त्तव्यम्
- लोकहितं मम कर्त्तव्यम्।
- देशसेवां करणं मम कर्त्तव्यम्।
- सर्वजनसम्मानं मम कर्त्तव्यम्
- सर्वजनहितं मम कर्त्तव्यम्।
- समयेन विद्यालयगमनं मम कर्त्तव्यम्।
- सर्वैः सह मधुरभाषणं मम कर्त्तव्यम्।
- राष्ट्रध्वजसम्मानं मम कर्त्तव्यम्।
- राष्ट्रगानसम्मानं मम कर्त्तव्यम्।
- ध्यानेन पठनम् मम कर्त्तव्यम्।
- गुरुजनसम्मानं मम कर्त्तव्यम्।
(5) पुस्तकम्
- पुस्तकानि मह्यम् अतीव रोचन्ते।
- मम समीपे बहूनिपुस्तकानि सन्ति।
- पुस्तकानि अतीव मनोहराणि सन्ति।
- मम समीपे चित्रपुस्तकम् अपि अस्ति।
- रमणीयं चित्रं चित्तम् आनन्दयति।
- स्तकानि ज्ञानस्य भण्डारः भवन्ति।
- पुस्तकानि अस्माकं मित्राणि सन्ति।
- पुस्तकानां सङ्गतिः लाभप्रदा भवति।
- अस्माभिः पुस्तकानि रक्षणीयानि।
- स्वगृहे लघुः पुस्तकालयो निर्मातव्यः।
- पुस्तकेषु यत्र कुत्रचित् न लेखनीयम्।
(6) विवेकानन्दः
- स्वामी विवेकानन्दस्य बाल्यकालस्य नाम ‘नरेन्द्रनाथः’ आसीत्।
- स्वामी विवेकानन्दस्य जन्म कोलकातानगरे अभवत्।
- स्वामी विवेकानन्दस्य पिता ‘विश्वनाथदत्त’! आसीत्।
- स्वामी विवेकानन्दस्य माता ‘भुवनेश्वरी देवी’ आसीत्।
- स्वामी विवेकानन्दस्य गुरुः ‘रामकृष्णपरमहंसः’ आसीत्।
- स्वामी विवेकानन्दस्य शिष्या ‘भगिनी निवेदिता’ आसीत्।
- स्वामी विवेकानन्दः यूनां कृते पथप्रदर्शकः आसीत्।
- स्वामी विवेकानन्दः संस्कृतानुरागी आसीत्।
- नरेन्द्रनाथः ‘स्वामी विवेकानन्दः’ इति नाम्ना प्रसिद्धोऽभवत्।
- स्वामी विवेकानन्दस्य बहवः शिष्याः अभवन्।
(7) अनुशासनम्
- मानव जीवने अनुशासनस्य विशेष महत्त्वम् अस्ति।
- अनुशासनम् विना जीवनं कष्टमयं भवति।
- समाजे नियमानाम् पालनम् एष अनुशासनं भवति।
- अनुशासनं विना कोऽपि कार्य सफलं न भवति।
- सामाजिकम् परिवारिकम् च व्यवस्थायै अनुशासनम् परमावश्यकम् अस्ति।
- राष्ट्रस्य प्रगतये अपि अनुशासनम् अत्यावश्यकम् अस्ति।
- मानवतायाः विकासाया छात्रेषु अनुशासनम् अनिवार्यम् अस्ति।
- प्रकृतिः अपि ईश्वरस्य अनुशासने परिलक्ष्यते।
- अनुशासनस्य पालनस्य भावना बाल्यकालादेव प्रवर्तते।
- अतः अस्माभिः जीवनस्य प्रत्येके क्षेत्रे अनुशासनस्य पालनम् करणीयम्।
(8) मध्यप्रदेशः
- मध्यप्रदेशः भारतगणराज्यस्य विशालं राज्यम् अस्ति।
- अस्मिन् प्रदेशे अनेकानि नगराणि सन्ति।
- तत्र औद्योगिक विकासः तीव्र गत्या अभवत्।
- अनेकानि रमणीकानि नगराणि सन्ति।
- तानि विद्यायाः केन्द्राणि सन्ति।
- तेषु नगरेषु अनेके विद्यालयाः महाविद्यालयाः विश्वविद्यालयाः सन्ति।
- विविध विषयानाम् ज्ञानम् तेषु गुरुभिः प्रदीयते।
- अस्य प्रदेशस्य राजधानी भोपालनगरम् अस्ति।
- अस्य नगरस्य महत्वम् प्राचीनकालात् एव वर्तते।
- इदम् नगरम् सरोवराणाम्। उद्यानाम् च अस्ति।
- राष्ट्रस्य विकासे मध्यप्रदेशस्य अति महत्त्वम् वर्तते।
(9) महात्मा गाँधी
- महात्मा गाँधी अस्माकं महापुरुषः अस्ति।
- सः। अहिंसाम् परिपालयन् स्वदेशं वैदेशिकेभ्यः अयुञ्चयत्।
- महात्मा गाँधिनः वास्तविक नाम मोहनदास गाँधी आसीत्।
- तस्य पितुः नाम करमचन्द गाँधी तस्य मातु च नाम पुतलीबाई आसीत्।
- तस्य माता अति धार्मिक प्रवृत्येः आसीत्।
- तस्य पिता तस्मिन् अत्यन्तं अस्निह्यत्।
- उच्च शिक्षा प्राप्तुं सः विदेशं अगच्छत्।
- स्वतन्त्रतासंग्रामस्य सः प्रमुख नेता आसीत्।
- तस्य प्रेरणया एवं जनाः स्वतन्त्रता आन्दोलने अक्षपिन् स्वदेशं स्वतन्त्रमकुर्वन।
- महात्मा गाँधी सम्पूर्ण संसारस्य वन्दनीयः अस्ति।
(10) दीपावलिः
- दीपावलिः एकः धार्मिकः उत्सवः अस्ति।
- दीपावलिः उत्सवः शरत्कालस्य मध्ये भवति।
- मनुष्या स्व-स्व गृहाणि गोमयेन, मृत्तिकया, सुधया वा निर्दोषाणि कुर्वन्ति।
- श्रुयते यद् अयम् मुख्य-रूपेण वैश्यानाम् उत्सवः अस्ति।
- अस्मिन् दिने सर्वे जनाः प्रसन्नाः भवन्ति।
- गृहे-गृहे मिष्ठानानां निर्माणं। भवति।
- सर्वे लक्ष्मीपूजनं कुर्वन्ति।
- सर्वाणि भवनानि सुन्दराणि राजन्ते।
- दीपावलिः प्रकाशस्य उत्सवः अस्ति।
- रात्रौ दीपकानाम् आभा सर्वेषाम् मनांसि हरति।
(11) महापुरुषः-आजादचन्द्रशेखरः
- महांश्चासौ पुरुषः इति महापुरुषः।
- पुरुषः महत्कार्यं कृत्वा महापुरुषः भवति।
- समाजहितार्थं राष्ट्रहितार्थं च यानि कार्याणि भवन्ति, तानि एव महत्कार्याणि भवन्ति।
- चन्द्रशेखरः आजादः एवमेव राष्ट्रसेवी महापुरुषः अस्ति।
- १९०६ख्रीस्ताब्दे आजादचन्द्रशेखरस्य जन्म अभवत्।
- अस्य जन्मभूमिः अलीराजपुरमण्डलस्य ‘भाभरा’ नामकग्रामे अस्ति।
- तस्य पिता सीतारामतिवारी, माता च जगरानीदेवी आसीत्।
- चन्द्रशेखरस्य अध्ययनं वाराणस्यां संस्कृतविद्यालये अभवत्।
- सः हिन्दुस्तान-सोसलिस्ट-रिपब्लिकन आर्मी नाम्ना सङ्घटनं कृतवान्।
- आजादचन्द्रशेखरः १९३१ ख्रिस्ताब्दे इलाहाबादनगरे (प्रयागनगरे) वीरगति प्राप्नोत्।